|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.168. अध्यायः 168
Mahabharata - Drona Parva - Chapter Topics
कर्णेन सहदेवस्य पराजयपूर्वकमवहेलनम्॥ 1 ॥ शल्येन विराटपराजयः॥ 2 ॥ अर्जुनेनालायुधपराजयः॥ 3 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-168-0x(4717)(52632)
सहदेवमथायान्तं द्रोणप्रेप्तुं विशाम्पते।
कर्णो वैकर्तनो युद्धे वारयामास भारत॥ 7-168-1(52633)
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः।
पुनर्विव्याध दशभिर्विशिखैर्नतपर्वभिः॥ 7-168-2(52634)
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत्॥ 7-168-3(52635)
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान।
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत्॥ 7-168-4(52636)
तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्॥ 7-168-5(52637)
विरथः सहदेवस्तु खङ्गं चर्म समाददे।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव॥ 7-168-6(52638)
अथ गुर्वीं महाघोरां हेमचित्रां महागदाम्।
प्रेषयामास सङ्क्रुद्धो वैकर्तनरथं प्रति॥ 7-168-7(52639)
तामापतन्तीं सहसा सहदेवप्रचोदिताम्।
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत्॥ 7-168-8(52640)
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः॥ 7-168-9(52641)
ससम्भ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात्।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम्॥ 7-168-10(52642)
रथचक्रं प्रगृह्याजौ मुमोचाधिरथं प्रति।
तदापतद्वै सहसा कालचक्रमिवोद्यतम्।
शरैरनेकसाहस्रैराच्छिनत्सूतनन्दनः॥ 7-168-11(52643)
तस्मिंस्तु निहते चक्रे सूतजेन महात्मना।
ईषादण्डकयोक्रांश्च युगानि विविधानि च॥ 7-168-12(52644)
हस्त्यङ्गानि तथाश्वांश्च मृतांश्च पुरुषान्बहून्।
चिक्षेप कर्णमुद्दिश्य कर्णस्तान्व्यधमच्छरैः॥ 7-168-13(52645)
स निरायुधमात्मानं ज्ञात्वा माद्रवतीसुतः।
वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ॥ 7-168-14(52646)
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ।
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशाम्पते॥ 7-168-15(52647)
मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह। 7-168-16(52648)
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः॥
अथैनं धनुषोग्रेण तुदन्भूयोऽब्रवीद्वचः॥ 7-168-17(52649)
एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे॥ 7-168-18(52650)
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव॥ 7-168-19(52651)
वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा।
कुन्त्याःस्मृत्वा वचो राजन्सत्यसन्धो महायशाः॥ 7-168-20(52652)
सहदेवस्ततो राजन्विमनाः शरपीडितः।
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत॥ 7-168-21(52653)
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः।
जनमेजयस्य समरे त्वरायुक्तो महारथः॥ 7-168-22(52654)
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम्।
मद्रराजः शरौघेण च्छादयामास धन्विनम्॥ 7-168-23(52655)
तयोः समभवद्युद्धं समरे दृढधन्विनोः।
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा॥ 7-168-24(52656)
मद्रराजो महाराज विराटं वाहिनीपतिम्।
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम्॥ 7-168-25(52657)
प्रतिविव्याध तं राजन्नवभिर्निशितै शरैः।
पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु॥ 7-168-26(52658)
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः।
सूतं ध्वजं च समरे शराभ्यां सन्न्यपातयत्॥ 7-168-27(52659)
हताश्वात्तुं रथात्तूर्णमवप्लुत्य महारथः।
तस्थौ विष्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान्॥ 7-168-28(52660)
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः॥ 7-168-29(52661)
शतानीकमथायान्तं मद्राराजो महामृधे।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्॥ 7-168-30(52662)
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम्॥ 7-168-31(52663)
ततो विष्फार्य नयने क्रोधाद्द्विगुणविक्रमः।
मद्रराजरथं तूर्णं छादयामास पत्रिभिः॥ 7-168-32(52664)
ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा।
आजघानोरसि दृढं विराटं वाहिनीपतिम्॥ 7-168-33(52665)
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्।
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ।
सारथिस्तमपोवाह समरे शरविक्षतम्॥ 7-168-34(52666)
ततः सा महती सेना प्राद्रवन्निशि भारत।
वध्यमाना शरशतैः शल्येनाहवशोभिना॥ 7-168-35(52667)
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ।
प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः॥ 7-168-36(52668)
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलायुधः।
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम्॥ 7-168-37(52669)
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः।
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम्।
कार्ष्णायसमयं घोरमृक्षचर्मसमावृतम्॥ 7-168-38(52670)
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता।
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः॥ 7-168-39(52671)
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट्।
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि॥ 7-168-40(52672)
अतितीव्रं महाद्युद्धं नरराक्षसयोस्तदा।
द्रष्टॄणां प्रीतिजननं सर्वेषां तत्र भारत।
गृध्रकाकबलोलूककङ्कगोमायुहर्षणम्॥ 7-168-41(52673)
तमर्जुनः शतेनैव पत्रिणां समताडयत्।
नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत॥ 7-168-42(52674)
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम्।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्॥ 7-168-43(52675)
पुनः सज्यं कृतं चापं तदप्यस्य द्विधाऽच्छिनत्।
विरथस्योद्यतं खङ्गं शरेणास्य द्विधाऽकरोत्॥ 7-168-44(52676)
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ।
पार्थोऽविध्यद्राक्षसेन्द्रं स विद्वः प्राद्रवद्भयात्॥ 7-168-45(52677)
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ।
किऱञ्शरगणान्राजन्नरवारणवाजिषु॥ 7-168-46(52678)
वध्यमाना महाराज पाण्डवेन यशस्विना।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः॥ 7-168-47(52679)
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना।
सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशाम्पते॥ ॥ 7-168-48(52680)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अष्टषष्ट्यधिकशततमोऽध्यायः॥ 168 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|